यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय॑न्ति। सुप्रा॑ङ॒जो मेम्य॑द्वि॒श्वरू॑पऽइन्द्रापू॒ष्णोः प्रि॒यमप्ये॑ति॒ पाथः॑ ॥२५ ॥
यत्। नि॒र्णिजा॑। नि॒र्निजेति॑ निः॒ऽनिजा॑। रेक्ण॑सा। प्रावृ॑तस्य। रा॒तिम्। गृ॒भी॒ताम्। मु॒ख॒तः। नय॑न्ति। सुप्रा॒ङिति॒। सुऽप्रा॑ङ्। अ॒जः। मेम्य॑त्। वि॒श्वरू॑प॒ इति॑ विश्वरू॑पः। इ॒न्द्रा॒पू॒ष्णोः। प्रि॒यम्। अपि॑। ए॒ति। पाथः॑ ॥२५ ॥
हिन्दी - स्वामी दयानन्द सरस्वती
फिर मनुष्य क्या करें, इस विषय को अगले मन्त्र में कहा है ॥
संस्कृत - स्वामी दयानन्द सरस्वती
पुर्नमनुष्याः किं कुर्युरित्याह ॥
(यत्) ये (निर्णिजा) सुरूपेण (रेक्णसा) धनेन। रेक्ण इति धननामसु पठितम् ॥ (निघं०२.१०) (प्रावृतस्य) युक्तस्य (रातिम्) दानम् (गृभीताम्) गृहीताम् (मुखतः) अग्रतः (नयन्ति) प्रापयन्ति (सुप्राङ्) यः सुष्ठु पृच्छति सः (अजः) जन्मादिरहितः (मेम्यत्) प्राप्नुवन् (विश्वरूपः) विश्वं रूपं यस्य सः (इन्द्रापूष्णोः) विद्युद्वाय्वोः (प्रियम्) कमनीयम् (अपि) (एति) प्राप्नोति (पाथः) अन्नम् ॥२५ ॥